Kavach
शनिवज्रपंजरकवचम्
कवच अर्थात् रक्षा। इस स्तोत्र में शनि देव के भिन्न-भिन्न नामों से शरीर के भिन्न-भिन्न अंगों की रक्षा की प्रार्थना की गई है, सिर से लेकर चरणों तक। यह ब्रह्माण्ड पुराण में ब्रह्मा और नारद के संवाद में आया है।
A kavach is armour, and this one is made of words. Verse by verse it asks a different name of Shani Dev to guard a different part of the body, from the head down to the feet. It comes from the Brahmanda Purana, in the dialogue between Brahma and Narada.
Scan to read online, with meaning
www.shaniseva.com/shani-vajra-panjar-kavach
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः ॥ १॥
शृणुध्वमृषयः सर्वे शनिपीडाहरं महत् । कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ २॥
कवचं देवतावासं वज्रपंजरसंज्ञकम् । शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥ ३॥
ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः । नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥ ४॥
नासां वैवस्वतः पातु मुखं मे भास्करः सदा । स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥ ५॥
स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः । वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ ६॥
नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा । ऊरू ममान्तकः पातु यमो जानुयुगं तथा ॥ ७॥
पदौ मन्दगतिः पातु सर्वांगं पातु पिप्पलः । अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दनः ॥ ८॥
इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः । न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥ ९॥
व्यय-जन्म-द्वितीयस्थो मृत्युस्थानगतोऽपि वा । कलत्रस्थो गतो वाऽपि सुप्रीतस्तु सदा शनिः ॥ १०॥
अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे । कवचं पठते नित्यं न पीडा जायते क्वचित् ॥ ११॥
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा । द्वादशाऽष्टमजन्मस्थदोषान्नाशयते सदा । जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥ १२॥
We perform the Shani puja at our centre in India, with your name and gotra spoken in the sankalp, and send you the recording. Something you can watch - not something you have to take on trust.
www.shaniseva.com/shani-vajra-panjar-kavach
The twelve shlokas as published by sanskritdocuments.org from the Brahmanda Purana. Printed editions differ in small spellings and some open with the viniyoga and the nyasa, which are the ritual preface rather than the kavach itself. If your edition carries those, nothing here contradicts it.